शनिवार, 22 जनवरी 2011

goraksha shataka

गोरक्ष-शतकम्
 
ॐ परम-गुरवे गोरक्षनाथाय नमः |
ॐ गोरक्ष-शतकं वक्ष्ये भव-पाश-विमुक्तये |
आत्म-बोध-करं पुंसां विवेक-द्वार-कुञ्चिकाम् ||1||
एतद् विमुक्ति-सोपानम् एतत् कालस्य वञ्चनम् |
यद् व्यावृत्तं मनो मोहाद् आसक्तं परमात्मनि ||2||
द्विज-सेवित-शाखस्य श्रुति-कल्प-तरोः फलम् |
शमनं भव-तापस्य योगं भजति सज्जनः ||3||
आसनं प्राण-संयामः प्रत्याहारोथ धारणा |
ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ||4||
आसनानि तु तावन्ति यावत्यो जीव-जातयः |
एतेषाम् अखिलान् भेदान् विजानाति महेश्वरः ||5||
चतुराशीति-लक्षाणां एकम् एकम् उदाहृतम् |
ततः शिवेन पीठानां षोडेशानं शतं कृतम् ||6||
आसनेभ्यः समस्तेभ्यो द्वयम् एव विशिष्यते |
एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ||7||
योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेन्
मेढ्रे पादम् अथैकम् एव नियतं कृत्वा समं विग्रहम् |
स्थाणुः संयमितेन्द्रियोचल-दृशा पश्यन् भ्रुवोरन्तरम्
एतन् मोक्ष-कवाट-भेद-जनकं सिद्धासनं प्रोच्यते ||8||
वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् |
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद्
एतद्-व्याधि-विकार-हारि यमिनां पद्मासनं प्रोच्यते ||9||
आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् |
योनि-स्थानं द्वयोर्मध्ये काम-रूपं निगद्यते ||10||
आधाराख्ये गुद-स्थाने पङ्कजं यच् चतुर्दलम् |
तन्-मध्ये प्रोच्यते योनिः कामाख्या सिद्ध-वन्दिता ||11||
योनि-मध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम् |
मस्तके मणिवद् भिन्नं यो जानाति स योगवित् ||12||
तप्त-चामीकराभासं तडिल्-लेखेव विस्फुरत् |
चतुरस्रं पुरं वह्नेरधो-मेढ्रम् एवाभिधीयते ||13||
स्व-शब्देन भवेत् प्राणः स्वाधिष्ठानं तद्-आश्रयः |
स्वाधिष्ठानाख्यया तस्मान् मेढ्रम् एवाभिधीयते ||14||
तन्तुना मणिवत् प्रोतो यत्र कन्दः सुषुम्णया |
तन्-नाभि-मण्डलं चक्रं प्रोच्यते मणि-पूरकम् ||15||
ऊर्ध्वं मेढ्राद् अधो नाभेः कन्द-योनिः स्व-गाण्डवत् |
तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः ||16||
तेषु नाडि-सहस्रेषु द्विसप्ततिरुदाहृताः |
प्राधान्यात् प्राण-वाहिन्यो भूयस्तत्र दश स्मृताः ||17||
इडा च पिङ्गला चैव सुषुम्णा च तृतीयका |
गान्धारी हस्ति-जिह्वा च पूषा चैव यशस्विनी ||18||
अलम्बुषा कुहूश्चैव शङ्खिनी दशमी स्मृता |
एतन् नाडि-मयं चक्रं ज्ञातव्यं योगिभिः सदा ||19||
इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा |
सुषुम्णा मध्य-देशे तु गान्धारी वाम-चक्षुषि ||20||
दक्षिणे हस्ति-जिह्वा च पूषा कर्णे च दक्षिणे |
यशस्विनी वाम-कर्णे चासने वाप्यलम्बुषा ||21||
कूहुश्च लिङ्ग-देशे तु मूल-स्थाने च शङ्खिनी |
एवं द्वारम् उपाश्रित्य तिष्ठन्ति दश नाडिकाः ||22||
सततं प्राण-वाहिन्यः सोम-सूर्याग्नि-देवताः |
इडा-पिङ्गला-सुषुम्णा च तिस्रो नाड्य उदाहृताः ||23||
प्राणापानौ समानश्च ह्युदानो व्यान एव च |
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ||24||
नागाद्याः पञ्च विख्याताः प्राणाद्याः पञ्च वायवः |
एते नाडि-सहस्रेषु वर्तन्ते जीव-रूपिणः ||25||
प्राणापान-वशो जीवो ह्य् अधश्चोर्ध्वं च धावति |
वाम-दक्षिण-मार्गेण चञ्चलत्वान् न दृश्यते ||26||
आक्षिप्तो भुवि दण्डेन यथोच्चलति कन्दुकः |
प्राणापान-समाक्षिप्तस्तथा जीवोनुकृष्यते ||27||
रज्जु-बद्धो यथा श्येनो गतोप्याकृष्यते |
गुण-बद्धस्तथा जीवः प्राणापानेन कृष्यते ||28||
अपानः कर्षति प्राणः प्राणोपानं च कर्षति |
ऊर्ध्वाधः संस्थिताव् एतौ यो जानाति स योगवित् ||29||
कन्दोर्ध्वे कुण्डली-शक्तिरष्टधा कुण्डली-कृता |
ब्रह्म-द्वार-मुखं नित्यं मुखेनावृत्य तिष्ठति ||30||
प्रबुद्धा वह्नि-योगेन मनसा मारुता हता |
प्रजीव-गुणम् आदाय व्रजत्य् ऊर्ध्वं सुषुम्णया ||31||
महामुद्रां नमो-मुद्राम् उड्डियानं जलन्धरम् |
मूल-बन्धं च यो वेत्ति स योगी सिद्धि-भाजनम् ||32||
वक्षो-न्यस्त-हनुर्निपीड्य सुचिरं योनिं च वामाङ्घ्रिणा
हस्ताभ्याम् अवधारितं प्रसरितं पादं तथा दक्षिणम् |
आपूर्य श्वसनेन कुक्षि-युगलं बद्ध्वा शनै रेचयेद्
एषा पातक-नाशिनी सुमहती मुद्रा न्णां प्रोच्यते ||33||
कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा |
भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ||34||
ऊर्ध्वं मेढ्राद् अधो नाभेरुड्डियानं प्रचक्षते |
उड्डियान-जयो बन्धो मृत्यु-मातङ्ग-केसरी ||35||
जालन्धरे कृते बन्धे कण्ठ-सङ्कोच-लक्षणे |
न पीयूषं पतत्य् अग्नौ न च वायुः प्रकुप्यति ||36||
पार्ष्णि-भागेन सम्पीड्य योनिम् आकुञ्चयेद् गुदम् |
अपानम् ऊर्ध्वम् आकृष्य मूल-बन्धो निगद्यते ||37||
यतः काल-भयात् ब्रह्मा प्राणायाम-परायणः |
योगिनो मुनयश्चैव ततः प्राणं निबन्धयेत् ||38||
चले वाते चलं सर्वं निश्चले निश्चलं भवेत् |
योगी स्थाणुत्वम् आप्नोति ततो वायुं निबन्धयेत् ||39||
षट्-त्रिंशद्-अङ्गुलं हंसः प्रयाणं कुरुते बहिः |
वाम-दक्षिण-मार्गेण ततः प्राणोभिधीयते ||40||
बद्ध-पद्मासनो योगी नमस्कृत्य गुरुं शिवम् |
नासाग्र-दृष्टिरेकाकी प्राणायामं समभ्यसेत् ||41||
प्राणो देह-स्थितो वायुरायामस्तन्-निबन्धनम् |
एक-श्वास-मयी मात्रा तद् योगी गगनायते ||42||
बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत् |
धारयित्वा यथा-शक्ति भूयः सूर्येण रेचयेत् ||43||
अमृतोदधि-सङ्काशं क्षीरोद-धवल-प्रभम् |
ध्यात्वा चन्द्रमयं बिम्बं प्राणायामे सुखी भवेत् ||44||
प्राणं सूर्येण चाकृष्य पूरयेद् उदरं शनैः |
कुम्भयित्वा विधानेन भूयश्चन्द्रेण रेचयेत् ||45||
प्रज्वलज्-ज्वलन-ज्वाला-पुञ्जम् आदित्य-मण्डलम् |
ध्यात्वा नाभि-स्थितं योगी प्राणायामे सुखी भवेत् ||46||
रेचकः पूरकश्चैव कुम्भकः प्रणवात्मकः |
प्राणायामो भवेत् त्रेधा मात्रा द्वादश-संयुतः ||47||
द्वादशाधमके मात्रा मध्यमे द्विगुणास्ततः |
उत्तमे त्रिगुणा मात्राः प्राणायामस्य निर्णयः ||48||
अधमे च घनो घर्मः कम्पो भवति मध्यमे |
उत्तिष्ठत्य् उत्तमे योगी बद्ध-पद्मासनो मुहुः ||49||
अङ्गानां मर्दनं शस्तं श्रम-संजात-वारिणा |
कट्व्-अम्ल-लवण-त्यागी क्षीर-भोजनम् आचरेत् ||50||
मन्दं मन्दं पिबेद् वायुं मन्दं मन्दं वियोजयेत् |
नाधिकं स्तम्भयेद् वायुं न च शीघ्रं विमोचयेत् ||51||
ऊर्ध्वम् आकृष्य चापानं वातं प्राणे नियोजयेत् |
मूर्धानं नीयते शक्त्या सर्व-पापैः प्रमुच्यते ||52||
प्राणायामो भवत्य् एवं पातकेन्धन-पातकः |
एनोम्बुधि-महा-सेतुः प्रोच्यते योगिभिः सदा ||53||
आसनेन रुजो हन्ति प्राणायामेन पातकम् |
विकारं मानसं योगी प्रत्याहारेण सर्वदा ||54||
चन्द्रामृत-मयीं धारां प्रत्याहारति भास्करः |
तत्-प्रत्याहरणं तस्य प्रत्याहारः स उच्यते ||55||
एका स्त्री भुज्यते द्वाभ्याम् आगता सोम-मण्डलात् |
तृतीयो यो भवेत् ताभ्यां स भवत्य् अजरामरः ||56||
नाभिदेशे भवत्य् एको भास्करो दहनात्मकः |
अमृतात्मा स्थितो नित्यं तालुमूले च चन्द्रमाः ||57||
वर्षत्य् अधोमुखश्चन्द्रो ग्रसत्य् ऊर्ध्व-मुखो रविः |
ज्ञातव्यं करणं तत्र येन पीयूषम् आप्यते ||58||
ऊर्ध्व-नाभिरधस्तालु ऊर्ध्व-भानुरधः शशी |
करणं विपरीताख्यं गुरु-वक्त्रेण लभ्यते ||59||
त्रिधा बद्धो वृषो यत्र रौरवीति महास्वनम् |
अनाहतं च तच् चक्रं हृदये योगिनो विदुः ||60||
अनाहतम् अतिक्रम्य चाक्रम्य मणिपूरकम् |
प्राप्ते प्राणं महापद्मं योगित्वम् अमृतायते ||61||
विशब्दः संस्मृतो हंसो निर्मलः शुद्ध उच्यते |
अतः कण्ठे विशुद्धाख्ये चक्रं चक्र-विदो विदुः ||62||
विशुद्धे परमे चक्रे धृत्वा सोम-कला-जलम् |
मासेन न क्षयं याति वञ्चयित्वा मुखं रवेः ||63||
सम्पीड्य रसनाग्रेण राज-दन्त-बिलं महत् |
ध्यात्वामृतमयीं देवीं षण्-मासेन कविर्भवेत् ||64||
अमृतापूर्ण-देहस्य योगिनो द्वि-त्रि-वत्सरात् |
ऊर्ध्वं प्रवर्तते रेतोप्यणिमादि-गुणोदयः ||65||
इन्धनानि यथा वह्निस्तैल-वर्ति च दीपकः |
तथा सोमकला-पूर्णं देही देहं न मुञ्चति ||66||
आसनेन समायुक्तः प्राणायामेन संयुतः |
प्रत्याहारेण संयुक्तो धारणां च समभ्यसेत् ||67||
हृदये पञ्च-भूतानां धारणां च पृथक् पृथक् |
मनसो निश्चलत्वेन धारणा च विधीयते ||68||
या पृथ्वी हरि-ताल-देश-रुचिरा पीता लकारान्विता
संयुक्ता कमलासनेन हि चतुष्कोणा हृदि स्थायिनी |
प्राणं तत्र विनीय पञ्च-घटिकाश्चित्तान्वितं धारयेद्
एषा स्तम्भकरी सदा क्षितिजयं कुर्याद् भुवो धारणा ||69||
अर्धेन्दु-प्रतिमं च कुन्द-धवलं कण्ठेम्बु-तत्तवं स्थितं
यत् पीयूष-व-कार-बीज-सहितं युक्तं सदा विष्णुना |
प्राणं तत्र विनीय पञ्च-घटिकाश्चित्तान्वितं धारयेद्
एषा दुर्वह-काल-कूट-जरणा स्याद् वारिणी धारणा ||70||
यत् ताल-स्थितम् इन्द्र-गोप-सदृशं तत्त्वं त्रिकोणोज्ज्वलं
तेजो-रेफ-मयं प्रवाल-रुचिरं रुद्रेण यत् सङ्गतम् |
प्राणं तत्र विनीय पञ्च-घटिकाश्चित्तान्वितं धारयेद्
एषा वह्नि-जयं सदा विदधते वैश्वानरी धारणा ||71||
यद् भिन्नाञ्जन-पुञ्ज-सान्निभम् इदं तत्त्वं भ्रुवोरन्तरे
वृत्तं वायुमयं य-कार-सहितं यत्रेश्वरो देवता |
प्राणं तत्र विनीय पञ्च-घटिकाश्चित्तान्वितं धारयेद्
एषा खे गमनं करोति यमिनां स्याद् वायवी धारणा ||72||
आकाशं सुविशुद्ध-वारि-सदृशं यद् ब्रह्म-रन्ध्रे स्थितं
तत्राद्येन सदा-शिवेन सहितं शान्तं ह-काराक्षरम् |
प्राणं तत्र विनीय पञ्च-घटिकाश्चित्तान्वितं धारयेद्
एषा मोक्ष-कवाट-पाटन-पटुः प्रोक्ता नभो-धारणा ||73||
स्तम्भनी द्रावणी चैव दहनी भ्रामणी तथा |
शोषणी च भवन्त्य् एवं भूतानां पञ्च धारणाः ||74||
कर्मणा मनसा वाचा धारणाः पञ्च दुर्लभाः |
विधाय सततं योगी सर्व-पापैः प्रमुच्यते ||75|| सर्वं चिन्ता-समावर्ति योगिनो हृदि वर्तते |
यत् तत्त्वे निश्चितं चेतस्तत् तु ध्यानं प्रचक्षते ||76||
द्विधा भवति तद् ध्यानं स-गुणं निर्गुणं तथा |
सगुणं वर्ण-भेदेन निर्गुणं केवलं विदुः ||77||
आधारं प्रथमं चक्रं तप्त-काञ्चन-सन्निभम् |
नासाग्रे दृष्टिम् आदाय ध्यात्वा मुञ्चति किल्बिषम् ||78||
स्वाधिष्ठानं द्वितीयं तु सन्-माणिक्य-सुशोभनम् |
नासाग्रे दृष्टिम् आदाय ध्यात्वा मुञ्चति पातकम् ||79||
तरुणादित्य-संकाशं चक्रं च मणिपूरकम् |
नासाग्रे दृष्टिम् आदाय ध्यात्वा संक्षोभयेज् जगत् ||80||
श्लोक नहीं है
विद्युत्-प्रभावं हृत्-पद्मे प्राणायाम-विभेदनैः |
नासाग्रे दृष्टिम् आदाय ध्यात्वा ब्रह्म-मयो भवेत् ||82||
सन्ततं घण्टिका-मध्ये विशुद्धं चामृतोद्भवम् |
नासाग्रे दृष्टिम् आदाय ध्यात्वा ब्रह्म-मयो भवेत् ||83||
भ्रुवोर्मध्ये स्थितं देवं स्निग्ध-मौक्तिक-सन्निभम् |
नासाग्रे दृष्टिम् आदाय ध्यात्वानन्दमयो भवेत् ||84||
निर्गुणं च शिवं शान्तं गगने विश्वतोमुखम् |
नासाग्रे दृष्टिम् आदाय ध्यात्वा दुःखाद् विमुच्यते ||85||
गुदं मेढ्रं च नाभिं च हृत्-पद्मे च तद्-ऊर्ध्वतः |
घण्टिकां लम्पिका-स्थानं भ्रू-मध्ये परमेश्वरम् ||86||
निर्मलं गगनाकारं मरीचि-जल-सन्निभम् |
आत्मानं सर्वगं ध्यात्वा योगी योगम् अवाप्नुयात् ||87||
कथितानि यथैतानि ध्यान-स्थानानि योगिनाम् |
उपाधि-तत्त्व-युक्तानि कुर्वन्त्य् अष्ट-गुणोदयम् ||88||
उपाधिश्च तथा तत्त्वं द्वयम् एवम् उदाहृतम् |
उपाधिः प्रोच्यते वर्णस्तत्त्वम् आत्माभिधीयते ||89||
उपाधिरन्यथा-ज्ञानं तत्त्वं संस्थितम् अन्यथा |
समस्तोपाधि-विध्वंसि सदाभ्यासेन योगिनाम् ||90||
आत्म-वर्णेन भेदेन दृश्यते स्फाटिको मणिः |
मुक्तो यः शक्ति-भेदेन सोयम् आत्मा प्रशस्यते ||91||
निरातङ्कं निरालम्बं निष्प्रपञ्चं निराश्रयम् |
निरामयं निराकारं तत्त्वं तत्त्वविदो विदुः ||92||
शब्दाद्याः पञ्च या मात्रा यावत् कर्णादिषु स्मृताः |
तावद् एव स्मृतं ध्यानं तत्-समाधिरतः परम् ||93||
यदा संक्षीयते प्राणो मानसं च विलीयते |
तदा सम-रसैकत्वं समाधिरभिधीयते ||94||
श्लोक नहीं है
धारणाः पञ्च-नाड्यस्तु ध्यानं च षष्ठि-नाडिकाः |
दिन-द्वादशकेनैव समाधिः प्राण-संयमः ||96||
न गन्धं न रसं रूपं न स्पर्शं न च निःस्वनम् |
आत्मानं न परं वेत्ति योगी युक्तः समाधिना ||97||
खाद्यते न च कालेन बाध्यते न च कर्मणा |
साध्यते न च केनापि योगी युक्तः समाधिना ||98||
निर्मलं निश्चलं नित्यं निष्क्रियं निर्गुणं महत् |
व्योम-विज्ञानम् आनन्दं ब्रह्म ब्रह्म-विदो विदुः ||99||
दुग्धे क्षीरं धृते सर्पिरग्नौ वह्निरिवार्पितः |
अद्वयत्वं व्रजेन् नित्यं योगवित् परमे पदे ||100||
भव-भय-वने वह्निर्मुक्ति-सोपान-मार्गतः |
अद्वयत्वं व्रजेन् नित्यं योगवित् परमे पदे ||101||
गोरक्ष-शतकं समाप्तम् |